रुचीनां कलहः

षड् रसाः पुरुषेणेह भोक्तव्या बलमिच्छता I
अम्लस्तिक्तः कषायश्चः मधुरो लवणः कटुः |

वयं सर्वे जानीमः यत् भोजने षड्रसाः सन्ति I आम्ल:, कटुः तिक्त:, कषाय:, मधुर:, लवण: च इति रसाःIएकदा तेषां परस्पराणां कलहः अभवत् Iकथम् ?? पश्यन्तु ....

शर्करा वदति -- अहं शुभ्रा I कियती सुन्दरी अहम् I


सर्वे जनाः मह्यमेंवस्पृहयन्ति I मां विना चायं, पिष्टकं, मिष्टान्नं कथं कर्तुं शक्नुवन्ति ? अतः अहं श्रेष्ठा अस्मि I

मधुरा मम रुचिः

मधुरेव मम कार्यम् I

अतः लभते बहु मानं सन्मानं च II

ओ हो ऽ ऽ ओ ऽ हो इति वदन्ती वक्रा तिन्तिडी त्वरया आगच्छति I

अस्तु अस्तु मम स्मरणमात्रेण मुखे रसः जायते I जायते न वा ?


अतः अहं श्रेष्ठा I न कोऽपि I

“अस्तु -- अस्तु वक्रातिन्तिडी’’, मरीचिका नृत्यन्ती आगच्छति Iअस्मि कटुः परं राज्ञी अस्मि I

मम वर्णान् पश्यन्तु हरितवर्णाः ,रक्तवर्णाःच शाकं ,पिज्झाव्यञ्जनं,जलपुरिका ,चीनदेशीयव्यञ्जनं(चायनिज),अवलेहः ,उपसेचनं च मया विना कथम् ?चिन्तनमपि न कर्तुं शक्नुमः भो:? तर्हिअहं श्रेष्ठा |

हं —हं --- कियती श्रेष्ठता!! भो किं न मयि का अपि श्रेष्ठता ? एवं मा चि

न्तयन्तु Iअधुना तिक्ता कारवेल्ली उक्तवती| मम नियमित सेवनेन मधुमेहः न भवति |

भोजने यदि अहं तर्हि


औषधयः किमर्थम् ?




वैद्यस्य समीपे गमनं तु नैव नैव |

आम्लेन तु पित्तं वर्धते | शुभ्रा शर्करा तु विषमाएव| किन्तु अहं तु अद्भुततमा|

तदा नम्रस्वरेण आमलकः उक्तवान्----- अस्ति मम कषायरुचिःI आयुर्वेदे तु ममैव वर्णनम् | मम सेवनेन चूर्णातुः (calcium नामकं सत्त्वम्)वर्धते | सुयोग्यपचनेन आरोग्यं लभते |

अहं कदापि कस्यापि हानिं न करोमि| अतः अहं -------


हो हो अधुना सैन्धवं वदति --तर्हि मम कार्यं कि भो:?भोजने रसे वा मम उपयोगः सम्यक् न भवति तर्हि भोजनं शक्यते वा ? इतोsपि किमर्थं एतावान् कोलाहल: भो: ?

अहं तु केवलं स्वयं किमपि कर्तुं समर्थो नास्मि | भवन्तः समर्थाः वा ?

सर्वे उक्तवन्तः न ----न ---- न नैव |

वयं सर्वे श्रेष्ठाः | कलहे कः लाभः?

परस्पराणां सहाय्येन वयं मानवेभ्यः क्रियाशीलतायै प्रेरणां दास्यामः |शान्तिः

भवतु |

उक्तम् अस्ति ---

परोपकाराय फलन्ति वृक्षा :
परोपकाराय वहन्ति नद्य: I
परोपकाराय दुहन्ति गावः
परोपकारार्थम् इदं शरीरम् |
तथैव परोपकारार्थम् अस्माकं जीवनमपि |

10 views0 comments

Recent Posts

See All