महाकविः - कालिदासः - सौ.जयश्री परेश देशमुख

उज्जयिनीनगरस्य समीपे एकः लघुग्रामः आसीत् | ग्रामेऽस्मिन् एकः विप्रः निवसति स्म । सः विप्रः अतीव विद्वान् आसीत् । तस्य भार्या सर्वगुणसंपन्ना । तयोः एकः पुत्रः अजायत । पुत्रस्य नामकरणात्पूर्वमेव दैववशात् तस्य मातृपितृ छत्रं नष्टं जातम् । सः बालः अनाथः अभवत् । प्रतिवेशिनः तं बालकम् अपालयन्l


यथासमयं सः बालः युवावस्थां प्राप्तवान् । तस्य समवयस्काः सर्वे विद्यार्जनार्थं गुरुगृहम् गताः , किन्तु एषः विप्रकुमारः वने गोपालकैः सह भ्रमति स्म । किन्तु एकेन प्रसङ्गेन तस्य जीवनं परिवर्तितम् ।

अपरे नगरे काशीनृपस्य कन्या उपवरा जाता । रूपवती सा कन्या शास्त्रकलानिपुणा आसीत् ।बहूनि दिनानि व्यतीतानि किन्तु सुयोग्यं वरं नृपः न प्राप्तवान् । एकस्मिन् दिने राज्ञ: मंत्रिण: पुत्र: वररुचि: राजकन्यया सह विवाहस्य प्रस्तावं अयच्छत् | किंतु "न अहम् रोचे यत: वररुचि: पितु: सेवकस्य पुत्र: "इति राजकन्या उक्तवती| बुद्धिमन्तं वररुचिं च तिरस्कृतवती| एतत् श्रुत्वा वररुचिः दुःखितः जातः । सः निश्चयं कृतवान् , " राजकन्या मम अपमानं कृतवती । एतस्य अपमानस्य प्रतिशोधम् अहं निश्चयेन ग्रहिष्यामि । " इति

कदाचित् अटन् वरं शोधन् सः अनाथं विप्रकुमारं दृष्टवान् । तं दृष्ट्वा तत्क्षणमेव वररुचेः चिन्तने एका योजना आगता । सः ब्राम्हणकुमारं आहूतवान् l तस्य स्वागतं कृतवान् l नैकानि दिनानि यावत् तस्य पोषणं कृतवान् l वररुचेः एतेन व्यवहारेण विप्रकुमारः आनन्दितः सन्तुष्टः च जातः l

एकस्मिन् दिने वररुचिः तस्य योजनानुसारं विप्रकुमारस्य विवाहः राजकन्यया सह कारितवान् l दिनद्वयादनन्तरमेव राजकन्या ब्राम्हणकुमारस्य विषये सर्वं ज्ञातवती l वञ्चिता दुःखिता कोपाविष्टा च सा विप्रकुमारं गृहात् बहिः निष्कासितवती l तेन अपमानितः ब्राम्हणकुमारः ततः निर्गम्य वनं गतवान् l तत्र कालिमातुः मन्दिरम् आश्रितवान् l तत्र प्रतिदिनं शास्त्रार्थं प्रचलति स्म l तैलबुध्दिः सः तत्सर्वं श्रुत्वा विपुलं

ज्ञानं लब्धवान् l कालिमातुः सेवाकार्येण अनाथः अनामिकः सः " कालिदासः" इति नाम अपि प्राप्तवान् l

प्रतिभासंपन्नः कालिदासः तदनन्तरं कुमारसम्भवम् , रघुवंशम् , इ. महाकाव्यानि ,ऋतुसंहार, मेघदूतम्

इति खण्डकाव्ये, मालविकाग्निमित्रम् , विक्रमोर्वशीयम् , अभिज्ञानशाकुन्तलम् च नाटकानि रचितवान् l भोजराजस्य नवरत्नेषु एकः एषः कालिदासः 'महाकविः' 'कविकुलगुरुः' इत्यादिभिः उपाधिभिः सुशोभते l

महाकविकालिदासस्य श्रेष्ठत्वं वयं एतेन श्लोकेन ज्ञातुं शक्नुमः -

'पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित कालिदासः l

अद्यापि तत्तुल्यकवेरभावात्

अनामिका सार्थवती बभूव l|

5 views0 comments

Recent Posts

See All